असंगतमिति । कथं पुनरिदमन्यार्थाद्भिद्यते । अत्राराध्याः । अन्यार्थे केवलं योगाद्रूढिर्बलवती । असमर्थे तु केवलयोगाद्योगरूढिः । तदपरे दूषयन्ति । तथापि रूढिच्युतिः साधारण्येव तदवान्तरं विशेषद्वयमन्यदिति । तन्न । भावानवबोधात् । किंचिद्धि पदमपवादकारणबलादवगम्यमानमपि योगमनपेक्ष्यैव क्वचिदर्थविशेषे वर्तते । यथा—गौरिति । नहि गमनस्य वाक्यार्थे प्रवेशः संभवति । किंचित्पुनर-009 सति बाधहेतौ बुध्यमानस्य त्यागायोगाद्योगविशिष्टमेंवोपाधिमभिधत्ते । यथा—पङ्कजमिति । तत्राद्यप्रकारे रूढिरेव सर्वस्वमिति तत्परित्यागे रूढिच्युतम् । द्वितीये तु योगमात्रे प्रयुक्तमसंगतं शक्तिशून्ये प्रयुक्तं शत्त्क्यैकदेशे प्रयुक्तमिति भिन्नोऽर्थस्तदेतत्सर्वं व्याख्यानेन स्फुटयति—अत्र जलधरेति । जलधरादिपदानि जलधारणादिविशिष्टे मेघत्वादौ रूढाभिधानशक्तीनि । कथमेतदवसितमिति चेत्तत्राह—लोकप्रसिद्धमिति । लोकाधीनावधारणत्वाच्छब्दार्थसंबन्धस्येति भावः । ततश्च यद्विशिष्टस्य योगस्य शक्तिविषयतया न तेन संकेतः । यत्र च समुद्रादौ प्रयोगो न तदुपाधिभिः समुद्रत्वाद्यैः संभूय शत्त्क्या संकेतः । क्षारादिपदोपसंदानेन च समुद्रादौ प्रयोग उन्नीयत इत्याह—तदिहेति । अत एव न तदवस्थस्य पदं वाचकमत एव चाक्षमत्वादसमर्थमिति संज्ञयैव व्यवह्रियत इति संक्षेपः ॥