भावत इति । भावनादृशापन्ना चित्तवृत्तिर्भावः । भावना वासनाव्याप्तिरित्यनर्थान्तरम् । तथा ह्युच्यते—अनेन गन्धेन रसेन वा सर्वं भावितमिति । हर्षादिभावितचेतसो हि वीचिप्राया उक्तिभेदाः प्रादुर्भवन्ति यैरप्रत्यूहमेव भावोऽभिव्यज्यते तदिदमुक्तं या भावतो वाचः काव्यरूपायाः प्रवृत्तिर्निष्पत्तिः सैव भाविकम् । भावप्रधानो निर्देशः । तथा हि—प्रकृतोदाहरणे एहीत्येकेनैव युष्मदर्थाविनाभाविनाभिमुखीकरणे वृत्ते द्वितीयस्य यदुपादानम्, पूर्णचन्द्रेति यदग्रिमक्रियास्वनुपयुक्तस्यैवाभिधानम्, चुम्बामीति करिष्यमाणस्यापि यो वर्तमानोपदेशः, चुम्बामीत्यत्र विशेषणमनुपादाय परिष्वज इत्यत्र चिरमिति यद्विशेषणोपादानम्, त्वमिति योग्यार्थस्यापि प्रयोगः पूर्वोपात्तवदुत्तरक्रियास्पर्धितया यदेकस्यैव वहनस्य भाषणमेव समस्तसमकक्षतयैव यद्वहनाभिधानम्, वत्सेत्यभिधाय चरणौ बन्द इति या विरूद्धोक्तिः, यच्च ते इत्यस्यावगतार्थस्यापि वचनम्, तत्सर्वमधर्मसिद्धमेवेति भावार्थस्य निष्पादितया स्वादहेतुर्भवति । प्रवर्तन्ते हि लौकिकानां स्नेहार्थानामुत्कलिकाप्राया वाचः स्वदन्ते च । यथा—‘इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोरसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः’ इति । तदेतदभिप्रेत्य व्याचष्टे—अत्रेति । उद्भटत्वात्तेन शेषाण्युपलक्षयति—अनौचित्येनापि वन्द इति ॥