गतिरिति । केचिव्द्याचक्षते । यतीनामारोहावरोहौ विवक्षितौ क्वचित्कविशक्तिवशाद्यद्यव्द्यारूढा अवरूढा इव प्रकाशन्ते । यथा—‘भुवो नीचैर्नीचैरवटपरिपाटीषु पततां स्फुरत्यर्वागर्वागखिलभुवने भोगितिलकः । क्रमादुच्चैरुच्चैर्गिरिशिखरभाजामपि नृणामयं दूरे दूरे भवति भगवानम्बरमणिः ॥’ अत्र यती नानारोहावरोहौ तिलतन्दुलवत्प्रकाशेते । इयं तु वृत्तौचिती वक्ष्यते । तथा च द्वितीये संगता स्यात् । तस्मादयमर्थः—स्वराणामकारादीनामुपर्युपरितया बोधः संनिकृष्टानामिव प्रकाशनं गतिरिति । तथा च व्याख्यास्यति—स्वरस्येति । तथा हि प्रकृतोदाहरणे वराहः कल्याणमित्यत्राकारद्वयं तुल्यजातीयं निर्दिश्य स वो इत्यत्रोकारेण तुङ्गत्वमिव विधाय द्वितीयपादोपक्रमे कलाकोटीकान्तमित्यत्राभिन्नजातीयारोहपरम्परा विहिता । उत्तरार्धे तु तथा नास्ति । शेते इत्यत्रापि न सोल्लेख आरोहः सोऽयमानुभविको गुणः श्लोकार्धश्लोकपादश्लोकांशक्रमेण नरसिंहवद्भवति । अत्रोपलक्षणतयाद्यमुदाहरति—अत्र पूर्वार्ध इति । क्रमैरितस्ततश्चरणविन्यासैर्विगलन्ती असंपद्यमाना याभ्युद्धृतिरभ्युद्धरणं तस्या या भीर्भयं तयेति केचित् । अन्ये तु वदन्ति—क्रमेण विगलदभ्युद्धृतिभयमूर्ध्वनयने स्फुटनादिभयं यस्याः सा क्रमविगलदभ्युद्धृतिभियेति ॥