अत्र कुशलं तस्या इति पृष्टे कुशलमकुशलं वेति वक्तव्ये योऽयं जीवतीत्याद्युक्तिभङ्ग्या जीवितमात्रशेषताप्रतिपादनप्रकारः स काव्ये शब्दगुणेषूक्तिसंज्ञां लभते ॥