विशिष्टेति । लोकोत्तराः सन्ति हि भणितिप्रकारा लोकप्रसिद्धाः । यथा सुप्तोऽसीति प्रश्ने गृहे देवकुले वेत्यादि । एतत्प्रसिद्धिव्यतिक्रमेण तु या काचित्कविप्रतिभया भणितिराकृष्यते सा भवति लोकोत्तरा । तथा च प्रतिभाकृष्टतया चमत्कारित्वाद्गुणत्वम् । अत एव कवय इत्याह । कविसहृदयानामेव तादृशोक्तिपरिचयसंभवात् । तथा हि—प्रकृतोदाहरणे कुशलप्रश्ने कुशलं वेति लोकप्रसिद्धमतस्तदेव वक्तुमर्हति । यत्तु तदपहाय जीवतीत्युपात्तमपरत्रापि प्रश्ने तथैवोक्तं तत्प्रतिभाकृष्टतया सामिप्रायमुन्नीयत इत्याह—अत्र कुशलमकुशलमित्यादि ॥

संप्रति प्रकर्षकाष्ठालक्षणं वाक्यस्य गुणं लक्षयति—