उक्तेरिति । उक्तेर्वाक्यस्यायं पाकः सा प्रौढिः । शब्दानां पर्यायपरिवर्तासहत्वं पाकः । यदाह—‘यत्पदानि त्यजन्त्येव परिवृत्तिसहिध्णुताम् । तं शब्दन्यायनिष्णाताः शब्दपाकं प्रचक्षते ॥’ इति । प्रौढ इति । उपक्रमोपसंहारयोर्निर्व्यूढः स चायं नायं नालिकेरसहकारमृद्वीकोपलक्षणैस्त्रिविधो गीयते । तद्यथा—नालिकेरफलं पक्वं त्वचि कठिनं शिरास्वविवृतकोमलप्रायं कपालिकायां कठिनतरं तथा कश्चित्संदर्भो मुखे कठिनस्तदनन्तरं मृदुप्रायस्ततः कठिनतरो नालिकेरपाक इत्युच्यते । तथा हि—प्रकृतोदाहरणे प्रथमपादेऽभ्युद्धृतेति वर्णचतुष्टयमारम्मे कठिनं ‘वसुमती दलि’ 072 इति वर्णषट्कं कोमलं ‘तं रिपूरः’ इत्यनुस्वाररेफदीर्घैरक्षरचतुष्टयं कठिनतरम् । अत्रापि तमिति मृदुप्रायानिवेशनेन कोमलकपालिकामुखभागसारूप्यं द्रढयतीत्यस्मदाराध्याः । एवं द्वितीयादिपादत्रये चतुष्कषट्कचतुष्कैर्नालिकेरफलसाम्यमुत्रेयम् । कथं पुनरेवंविधः पाकः संभवतीत्यत आह—अत्रेति । अभ्यासेन निर्वृत्त आभ्यासिकः । काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरभ्यासः । असावपि कथं पाकविशेषो भवतीत्यत आह—सन्निवेशचारुत्वेनेति । सन्निवेशो रचना तस्यां चारुत्वम् । तदपि कथमित्यत आह—आवापोद्वापाभ्यामिति । संदर्भानुप्रवेशनमावापः । ततःसमुद्धरणमुद्वापः । केषामित्यत उक्तम्—पदानामिति । उद्धृतानामिति बुध्द्या पृथक्कृतानाम् । केभ्य इत्यत उक्तम्—प्रकृतिस्थादित्यादि । तेनायमर्थः—प्रकृतिस्थादिपदतोऽप्येतदेवोद्धर्तव्यं यद् घटनासौष्टवेन पर्यायपरिवर्तनं न सहते । भवति हि सहृदयानामेवमन्यत्पदं नास्तीति व्यवहारः । सोऽयं रचनासिद्धिविशेषः कथमन्यथा तज्जातीयमेव पदमन्यत्र संदर्भे निवेशितं न तथा स्वदते । अत एवासौ वाक्यगुणः । काठिन्यं च संयोगैर्दीर्घैर्वा स्वरैर्भवति । यथात्रैवोदाहरणे रिपूर इत्यादौ । सुप्तिङ्व्युत्पत्तिलक्षणस्तु वार्ताकपाकः कैश्चिदुक्तः, स तु सुशब्दतालक्षणगुण एव । एवमिति । यथा द्राक्षाफलं त्वच आरभ्य कोमलमन्तरा द्वित्रिचतुरास्थिसंपादितं किंचित्काठिन्यमेवं कश्चित्संदर्भमुपक्रमोपसंहारयोः कोमल एव मध्ये कठिन एव । संयोगदीर्घस्वरमात्रकृतमनाक्कठो रभावो मृद्वीकापाक इत्युच्यते । यथा—‘अयि त्वदावर्जितवारिसंभृतं प्रवालमा- सामनुबन्धिवीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥', यथा च—‘अनवरतनयनजललवनिपतनपरिपीतहरिणमदतिलकम् । वदनमपयातमृगमदशशिकिरणं वहन्ति लोलदृशः ॥’ अत एव कविकल्पलताकारादिभिरुक्तो नीलकपित्थपाकश्चतुर्थो नास्ति । यद्वच्च परिणतं सहकारफलमारमभादेव कोमलमस्थनि तु कठोरप्रायमेवमपरः संदर्भो मुखादारम्य मृदुरन्तरे कठिनतरः सहकारपाक इत्युच्यते । यथा—‘कमलिनि कुशलं ते सुप्रभातं रथाङ्गाः कुमुदिनि पुनरिन्दावुद्गते त्वं रमेथाः । सखि रजनि गतासि त्वं तमो जीर्णमुच्चैरिति तरलितपक्षाः पक्षिणो व्याहरन्ति ॥’ अत्रैवोदाहरणेऽपि द्विधा कठोरत्वमवसेयम् । तेऽमी त्रय एव शुद्धपाकाः । व्यतिकरजन्मानस्तु भूयांसः । एत एवार्थपाकाः पञ्चमे प्रकारान्तरेण प्रतिपादयिष्यन्ते ॥

सूत्रकार एवार्थगुणप्रकरणे संगतिं करोति—