अत्रैकासनसंस्थितयोः प्रियतमयोर्विलासिना ह्येका नयनमीलनकेलिकर्मणा वञ्चिता । अन्या तु वदनचुम्बनेन रञ्जितेति । सेयं संविधाने सुसूत्रता । श्लेषो नाम वाक्यार्थगुणः ॥