भूतीत्यादि । भूतिः संपत्तस्या उत्कर्षो लोकातिगप्रकर्षस्तस्यैव सहृदयचमत्कारार्पकतत्या गुणधुराधिरोहणक्षमत्वात् ॥ प्राणानामिति । उचिता तपोयोग्या । 078 वनस्य कल्पतरुसंबन्धः संपत्, तत्रैव सत्पदेन मुक्तास्तबकमाणिक्यमञ्जरीचीनांशुककिसलयादिविशेषद्योतिना प्रकर्षः । पद्मप्रकरस्तोयसंपत्, तत्रैव काञ्चनमयत्वेन पद्मानां प्रकर्षः । बहुत्वं शिलावेश्मसंपत्, तत्रैव रत्नरूपताप्रकर्षः । संनिधि स्रीप्रतियोगिकतासंपत्, तत्रैव विबुधेति प्रकर्षः । तदिदमाह—सत्कल्पवृक्षादिपदैरिति ॥