ओज इति । अध्यवसायो निश्चयस्तत्र विशेषः पूर्ववत् । स्वपदेन वक्ताभिमतः ॥ तानीति । यदि हन्तव्यजातीयमेव न विपर्यंस्तम् । ता एवेति । प्रभावोत्साहमन्त्रजास्तद्वदर्थनिबर्हणप्रौढिप्रख्यातकीर्तयः शक्तयो यदि न विलीनतामयासिषुः । परशुराम इति । अर्जुनभुजसहस्रच्छेदादिना यस्य परशु(राम)र्वरदानेन त्रिभुवनेऽपि प्रसिद्ध इत्यादि ॥