प्रेय इति । शब्दगुणे तु निप्पादितवर्णनीयप्रीतिजनकत्वं पदानामुक्तम् । इह तु वाक्यार्थस्य वक्तृप्रीतिगोचरत्वमुच्यत इति विशेषः । प्रीतिरुक्तपूर्वा । तत्रैवाभिशब्देन प्रकर्षो द्योतितः । अभीष्टता प्रेय इति प्रेयःपदप्रवृत्तिनिमित्तम् । रसवदिति । प्रशंसायां मतुप् । अमृतमिति यस्य प्रसादात्त्रिदशैरमरत्वमासादितं नान्यथेति प्रत्यक्षसाक्षिके वस्तुनि प्रमाणान्तरानुसरणम् । प्रसन्नरसमिति अम्लतालक्षणकाव्यार्थापगमेन परिणतिरित्यादि ॥