सौक्ष्म्यमिति । सूक्ष्ममित्यादिवाक्यैकगोचरोऽर्थः कुशाग्रीयबुद्धितया सूक्ष्म- स्तस्य दर्शनमुपायवैलक्षण्यात्तत्तद्विशेषवतः प्रत्यक्षायमाणता । सूक्ष्मालंकाराद्भेदस्तृतीये करिष्यते । स चायं भाव्यो वासनीयश्च । भावनामात्रगम्यो भाव्यो यथा—

‘उच्चइ आगमहि आवड्ढ सिज्जन्तरो सपरिआरम् ।
पाणौ पसरन्तमत्ताचंवफलिहचसअम्भुहं बाला ॥’13

एकाग्रताप्रकर्षगम्यो वासनीयस्तमुदाहरति—अन्योन्येति । व्याजापसृतपरिवारे लीलावेश्मनि तत्कालकलितमन्मथोन्माथं विदग्धमिथुनमुत्तरोत्तरमपनीयमानत्रपासाध्वसतया प्रतिकलं नवेन्दुवत्कान्तिविशेषमासादयति । विचित्रमव्यभिचार्यनुप्रवेशे हर्षरुदितस्मितादीनामव्यवस्थिततया व्यतिरेकरूपकिलकिञ्चिताख्यशृङ्गारभावोन्मेषः ॥

  1. ‘उच्यारागच्छेरावर्धय सिद्धान्तरः सपरिवारम् । पाणौ प्रसरन्त... ... ... ... ... ...बाला’ इति च्छाया