विस्तर इति । वाक्यार्थस्य पल्लवभूततत्तत्सहृदयचमत्कारिविशेषप्रसारणं संवृतविवृतपटवत् विस्तराख्यो गुणः । विस्तर इव विस्तरः शब्दप्रपञ्चवदित्यर्थः । अन्यथा विस्तार इति स्यात् । संग्रामाङ्गणेत्यादौ तु शत्रुशिरश्छेदात्सप्ताब्धिव्यापिनी त्वया कीर्तिरार्जितेत्येतावान्वाक्यार्थो लौकिकसाधारणतया च चमत्कारास्पदमिति संग्रामाङ्गणसंगतिरेव न तथा यथा वीरमात्रस्योचिता तत्रापि चापसमारोपणमिति काप्युत्साहशक्तिः । अत एव बलवदाश्रयप्रसक्तलुण्टाकवधेन यदवसितं तेनैव तदासादितमिति सोपस्कारकर्तृकर्मप्रपञ्चेन विकासनमेव काव्यपदवीप्राप्तिबीजम् । तदिदमाह—बहुविधं विकासितत्वादिति । नात्र शब्दविकासाधीनः प्रकर्ष इति शब्दविस्तराद्भेदः ॥