संक्षेप इति । तस्येत्यर्थस्य समासे गुणीभूतस्यापि बुध्द्या विभज्य परामर्शः । यथा—‘अथ शब्दानुशासनम् । केषां ? शब्दानामि'ति । अशेषविशेषोपग्राहकपुरस्कारेण वाक्यार्थस्याभिधानं विवृतसंवृतपटवत्संक्षेपः ॥ श्रूयतामिति । अत्र तेन तेन विशेषेण विस्तरतः प्रतिपादयितव्यस्य धर्मस्य यत्किंचिदात्मनः प्रतिकूलमन्यस्य नाचरणीयमिति सामान्येनाभिधानमप्रवृत्तप्रवर्तने प्रगल्भायमानमतिसुन्दरमाभासते । नात्र रचनासंकोचप्रतिष्ठितं काव्यमिति शब्दगुणाद्भेदः ॥