गूढार्थमिति । यस्य पदस्य द्वावर्थौ सिद्धश्चासिद्धश्च तच्चेदप्रसिद्धे प्रयुक्तं तदा गूढार्थम् । अप्रसिद्धार्थ प्रयोगमिति । अप्रसिद्घेऽर्थे प्रयोगो यस्येति गमकत्वाद्बहुव्रीहिः । तव तेजसि नान्यतेजांसि भान्तीति योजना । ‘गौः शराक्षिपयःस्वर्गपशुमेदवचःसु च’ इत्याम्रातोऽपि तथा नाक्ष्णि प्रयुज्यते यथा पशुभेदादावित्याह—न च गोशब्दस्येति । ‘हरिः कृष्णे च सिंहे च मेकार्कभुजगेषु च’ इति स्वसंकेतितस्यापि हरिशब्दस्य न तथा रवौ प्रसिद्धिर्यथान्यत्रेत्याह—सोऽपि नेति ॥