यच्छ्रुतेरिति । दुर्वचकयोगा इति व्यावहारिकचतुःषष्ट्यां दुर्वचकप्रयोगोऽनुमतः । तस्यानुप्रासघटकत्वेऽलंकारनिर्वहणक्षमतया कविशक्तिव्यञ्जकस्य गुणीभावः । आदिपदेन रौद्रादिरसानुप्रवेशः । यदाह—

‘शषौ सरेफसंयोगौ टवर्गश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युताः ॥
089
त एव विनिवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव तेन वर्णा रसच्युताः

 ॥’ इति ।

त्वाष्ट्रा राक्षसास्त्वष्टुरपत्यं वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे स्वर्गे न सन्ति । भ्राष्ट्रे चणकादिभर्जनस्थाने न कुण्ठदंष्ट्रा भवन्ति । असितचञ्चुचरणा हैमा22 धार्तराष्ट्रा व विद्यन्ते । उष्ट्रिण उष्ट्रोपजीविनः ॥

  1. ‘हंसा’ ख