यत्पादपूरणेति । द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययपदमनर्थकमित्युक्तम् । पादपूरणार्थत्वं तु दूषणताबीजम् । आदिग्रहणाद्गद्यपूरणम् । सति तूपयोगे तस्य तद्बिजाभावाद्दोषभावविरहोऽलंकारारम्भे च गुणत्वम् । तदिदमुक्तम्—यमकादिष्विति । आदिशब्दोऽनुप्रासचित्रादिपरः । वाक्यालंकारार्थत्वमपि शब्दालंकारारम्भकत्वमेव । यदाह—‘आर्षार्षिपुत्रकर्षिकवैदिकादिवाक्यानामलंकारहेतवो वाक्यालंकारार्थाः’ इति । तेन—

‘उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन

 ॥’ इति ।