अत्र पङ्क्तिशब्देन दशसंख्या, अनेकजनामेत्यनेन चक्रम्, तङ्रइत्यनेन रथस्ताभ्यां दशरथस्तस्य तुक् बालको लक्ष्मणस्तेन जित उलूकजिदिन्द्रजित् । किं कृत्वा । मुखांशवन्तमास्थाय हनुमन्तम् । किंभूतेन । विमुक्तपशुपङ्क्तिना विमुक्तेषु पशुपङ्क्तिना । अत्र पशुशब्देन गोशब्दो लक्ष्यते तेनेषवस्तदिदं स्वसंकेतकल्पितार्थं नेयार्थमुच्यते ॥