स्वसंकेतेति । कल्पितार्थं नेयार्थमिति सूत्रयित्वा वामनेन व्याख्यातम् । अश्रौतस्यार्थस्य कल्पना कल्पनाकल्पितार्थम् । अस्यार्थः—यत्पदं नानार्थस्वपर्यायलक्षणया विवक्षितप्रतीतिपर्यन्तं नीयते तत्कल्पितार्थमिति केचित् । तदयुक्तम् । स्वपर्यायेत्यस्य व्यर्थत्वादव्यापकत्वाच्च । तस्मात्प्रयोजनं विना लक्षणया प्रयुक्तमित्येवार्थः । यदाह काव्यप्रकाशकारः—नेयार्थेयत्त्वशक्तित इति यस्मिन्निषिद्धं लाक्षणिकमिति । प्रयोजनं विना रूढं लक्षणापरिग्रहे न दोषः । तथा च द्विरेफरथाङ्गनामादिपदानां रेफद्बयानुगतभ्रमरादिशब्दलभणाद्वारेण षट्पदादौ वृत्तिर्वृद्धव्यवहारपरम्परानुपातिनीति तेषां प्रयोगोऽयुक्त एव । अत एव ‘तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास’ इत्यादिकमपि नेयार्थमिति काश्मीरकाः । तदेतत्खपदेन दर्शितवान् । मुखस्यांशो हनुरत्राभिमतः । पङ्क्तिरिति दशाक्षरं छन्दः दशसंख्या लक्ष्यते । अनेकजो द्विजश्चक्रवाकस्तस्य नाम चक्रं रथैकदेशस्तद्धारयतीति 012 धारयतेर्मूलविभुजादित्वात्कः । ताभ्यामिति । पङ्क्तिरनेकज इति नाम यस्येत्यर्थात् । तुक् तोकं तोक्ममित्यपत्यनामानि । उपलक्षणतयैकदेशं व्याचष्टे । अत्र पशुशब्देन गोशब्दो लक्ष्यत इति प्रृतापेक्षया । तेनेषवः प्रत्यायन्त इति शेषः ॥