नेयार्थमिति । अत्रापि पूर्ववदेव वासना । आकीर्णामन्त्रणादौ विदग्धानां लक्षणादयः प्रहेलिकाविशेषानुन्मीलयन्त उपयुज्यन्ते । तथा हि—मयूरेति । 'जिअनाउ’ इति पाठे जितनौक इति स एवार्थः । मयूरो बर्हभारे चन्द्रकं वहति । अनेन संकेतेन चन्द्रनाम लभ्यते । संविष्टस्य शिरोदेश उच्छीर्षम्, चरणदेशः पादान्तः । उच्छीर्षेण प्राची दिग्लक्ष्यते । ‘प्राक्शिराः शयीत’ इति वचनात् । अर्थात्पादान्तेन प्रतीची । ततश्च ‘प्राच्याः प्रतीचिमर्धचन्द्रो गतः’ इति प्रातःकालोद्भेदो वाक्यार्थः । ‘अणुणेन्ति अजिणणाउ’ इति पाठे सुभगमानिनं कान्तमनुनयन्त्या मया ज्ञात हति खण्डितकामिनीखेदोक्तिः । न चैतासां लक्षणानामस्ति किंचित्प्रयोजनमिति नेयार्थत्वप्रसक्तौ प्रहेलिकाभाव एव समाधानहेतुः । ननु चोच्छीर्षपादान्तरपदयोरस्तु, मयूरकलाप इत्यादौ तु कथम् । यमिति हि सर्वनामाभिमतमेव तावदुपस्थापयति । बर्हे बहूनां बहुले कथमेकस्य प्रतीतिरित्यभिधानेऽपि कदाचित्क्लिष्टस्य विशेषगुणः स्यात् । नात्र नेयार्थता, किं तु तेन संकेतेन कल्पितस्य चन्द्रनाम्न इति । तस्य नाम्नः सदृशनामेत्यनेन मुख्यवृत्त्यैव विवक्षितसदृशलाभादिति । अत्रेदं वक्तव्यम्—तस्य नाम्न इत्यनेन चन्द्रकपदमुपस्थापितम्, न च तेन सहास्ति चन्द्रपदस्य सादृश्यमिति । तत्र लक्षणाश्रयणीया । तदिदमुक्तं चन्द्रसंकेतेन कल्पितस्य चन्द्रनाम्न इति । उपलक्षणतया च एकदेशव्याख्यानम् ॥