अत्र तस्मिन्नपत्ये इत्यनिश्चितस्याप्यपत्यविशेषस्य संदिग्धत्वेऽपि गौर्यामिति प्रकरणेन गम्यते । मेघच्छविरित्यस्य च नवश्यामादिपदानुपादानेऽपि शौरिसंबद्धत्वान्नवमेघच्छविर्मेघश्यामच्छविरिति वा विशेषो निश्चीयत इति तस्यापि गुणत्वम् ॥