यत्तदिति । एवं वस्तु प्रकृतमभिसंधाय वाक्यरचने तदुपमर्दकवस्त्वन्तरप्रवेशो विरोधः । यत्र द्वे अपि वस्तुनी प्रकृते वस्त्वन्तरमेव वा प्रकृतं तद्यथोक्तरूपाभावे कथं दोषः । तथा हि—अभिधायेत्यादौ दूतवाक्ये संधिविग्रहयोर्मिथो विरोधिनोरपि विवक्षितं स दोषः । सरुषः सक्रोधस्य तव माननां पूजां शिशुपाल इच्छति । अनुशयः पश्चात्तापः । अभिमुखं सोत्कण्ठं मनो यस्य स तथेति संधिपक्षे । विग्रहपक्षे त्वनुशयः क्रोधो भवतः सकाशादभि भयशून्यं मनो यस्येति नित्यसापेक्षत्वात्समासः । सरुषो मानना उपयोगस्तदिह निसृष्टार्थस्योभयोपन्यासो यद्रोचते तद्विधीयतामित्यभिसंधाय रचित इति गुणत्वमित्युभयविवक्षापक्षे व्याख्यानम् । यदा तु शासनहरो दूतस्तदोद्यतेष्वपि शस्त्रेषु यथोक्तवक्तारो दूता भवन्तीति न्यायेन विग्रहर्थमेवाभिमतः विपक्षस्यापि प्ररोचना दूतकर्तव्येति मुखे संधिः पर्यायभूतो युक्त एव । तदिदं व्याख्यानेन स्फुटयति—अत्रेति । संधिरूपोऽर्थः संध्यर्थः, विग्रहरूपोऽर्थो विग्रहार्थः । तयोरभिधानेन स्फुट एव भिन्नोऽर्थः प्रयोजनम् । पक्षद्वयेऽपि यत्प्रयोजनमुक्तं तदभिप्रायेणैतव्द्याख्यानम् ॥