यस्य पदस्यैकदेशो ग्राम्यानुगामी तस्य स्मृतिहेतुता । तत्र कुत्रचिदुक्तिवैचित्र्यादेकदेशो झटिति स्मारकः, क्वचित्तथैव समुदायशक्त्या विपरीतार्थोपस्थापनाज्झटिति स्वार्थं समुदाय एव प्रतिपादयति । आद्यो दूषणम् । द्वितीयस्तु वैजात्याभावाद्गुणः । तदेवं लक्षणं यत्राद्ये ग्राम्यत्वं ततोऽन्यत्रैव बहुधा लक्षणात्तदिदमुक्तम्—अन्यत्र लक्षितत्वादिति ॥