यथा वेति । पक्षः पतत्रं परिकरश्च । आशा दिक् प्रत्याशा च । मदः क्षीबता दर्पश्च । निपात आगमनं शस्त्रादिहतानां मेदिनीसंगतिश्च । रङ्गमङ्गलान्तः स्वस्त्ययनप्रवृत्तस्य सूत्रधारस्य मङ्गलार्थाधिकारवस्तुप्रस्तावनं तावद्बुद्धिपूर्वकमत्र न संभवति हंसानहमित्यादिना तात्पर्यस्य नियमितत्वात् । स्वशक्त्या तु पदार्थान्तरमा-101 भासयन्ति पदानि दोषतया न प्रतिभासते । तत्र वीथ्यङ्गविशेषोपक्षेपस्यामुखशरीरत्वादौचित्यनिवेश एव स्फुटं कारणमित्याशयो बोद्धव्यः । औचित्यविरोधो न सार्वत्रिक इति नातिप्रसङ्ग ॥