अथापरं संख्यानप्रकारं घृणावदर्थे कथयति—यथेति । गुणवृत्तिव्यापाराश्रयेष्ववान्तरादिपदेषु प्रथमत एवान्यक्रियादिधर्माणामन्यत्रारोपे समाधिप्रादुर्भावा-102 दनुत्थानं दोषाभावत्वद्वारं, ततश्च मुख्य एव स्थाने जुगुप्सादायित्वं पूर्वाचार्यश्लोकेनैव व्याचष्टे—अत्रेत्यादि । गुणग्रस्तत्वमभिप्रेत्यातिशयसंपत्तौ प्रकृतौचित्यात्कपोलस्यैव प्रतिभासस्तदिदमुक्तम्—रागातिशयहेतुभूतयोरिति । तथा च जगन्नयनानन्दभूतस्य निःशेषिताशेषतमसश्चन्द्रमसो यदिदमभिप्रेतकामिनीकपोललावण्यबिन्दुमात्रतया भानं तदुचितमेवेति ॥

प्राच्यानामेव वासनामभिसंधाय स्मृतिहेतुमुदाहरति—