द्वितीयमन्तर्भावप्रकारं व्युत्पादयति—संनिवेशवशादिति । संनिवेशो वागनुभावः । औचित्याकृष्टपदघटना तद्वशत्वं तदाकृष्टत्वमत एव विरोधिसंगततया विजातीययोरप्यौचितीवशेन कान्तिविशेषोन्मीलकत्वात् पत्रपुष्पव्यतिकरजमालासादृश्यं दर्शयति—नीलमिति । अन्त्रैरित्यादौ प्रत्युत्पन्नदोषोन्मत्तप्रेताङ्गनावलोकस्य माधवस्यालम्बनोद्दीपनविभावादिप्रकर्पे बीभत्सरसोत्सेकस्तावदुपपन्नः । यस्त्वयमकस्मादेव मङ्गलादिपदानां शृङ्गारानुयायिनामिह निवेशः स कथं दोषभावादपनेतव्यः, कथं वा गुणत्वमासादयितव्यमित्यतो हेतुगर्भं व्याचष्टे—अत्र श्रृङ्गारिण इति । श्रृङ्गारवासनानिविष्टः श्रृङ्गारी । तथा च पूर्वं बीभत्सरसान्वयेऽपि प्रकृत श्रृङ्गारभङ्गो मा भूदित्येतदर्थमेव कविना ‘मम हि’ इत्यादिना प्रतिज्ञाय ‘लीनेव’ इत्यादिवासनादृढत्वमुपपादितम् । अत एव प्रतिपदं रूपकमाविष्टाभिप्रायमेवं श्रृङ्गारमयं श्रृङ्गाराङ्ग-104 तया रसतापन्नम् । उपपद्यते च तच्चित्तस्य सादृश्यमात्रेण तद्रूपतानुसंधानम् । ततश्च कथं नोद्दीपनता वस्तुसत्त्वस्यानुपयोगित्वात् । अत एव सूत्रितस्य बीभत्सस्य प्रकृतेन बाधात् प्रकृतार्थानुपोष इति ॥

ननु कथमुद्देशे चतुर्विंशतिधेत्युक्तम् । दोषा हि पूर्वं षोडशैव विभक्ता इत्यत आह—