अनुकम्पेति । संभ्रमादौ यावद्बोधमित्यादिना पदद्विरुक्त्यादेरनुमतत्वान्न दोषत्वम् । अभिप्रायव्यञ्जननैयत्येन प्रकृतिपोषानुगुणतया गुणत्वम् । तथाहि—हन्यत इत्यादौ हन्यत इति यद्यप्यभिधेयतात्पर्यमिति शब्दपुनरुक्तजातीयं भवति, यद्यपि च वरारोहेत्यभिधाय चारुसर्वाङ्गीत्यभिन्नाभिधेयतात्पर्यं पर्यायरूपत्वादर्थपुनरुक्तजातीयम्, तथापि विरहवेदनादूनायामनुकम्पातिशयादसकृदुपादानमहिरहिर्बुध्यस्वेति लोकानुसारात् । अनुकम्पाभयाद्यस्य हि तादृशी पदद्विरुक्तिरभिप्रायविशेषार्थनिष्पादितया गुणकक्षाधिरोहणक्षमैवेत्याशयवान्व्याचष्टे—तदुभयमपीति ॥