पदानामिति । एकस्मिन् वाक्ये पदानामुचितसंनिवेशविपर्यासः क्रमभ्रंशः । स द्विधा भवति—पूर्वापरभावनियतानां तादृशक्रमप्रच्यावनेन वा । यथा बहुतृणमित्यन्योऽर्थः, तृणं बह्वित्यन्यः । पूर्वापरनियमशून्यानामिति तादृगुच्चारणविपर्यासेन वा । यथा कपालमनुलिम्पति, दुकूलं परिदधातीत्यत्र क्रमनियमोऽभिमतः । अनुलिम्पति कपालम्, परिदधाति वस्त्रमित्यपि कृतेन तस्यैवार्थस्य लाभात् । यदा तु कपालं परिदधाति दुकूलमनुलिम्पतीति क्रियते तदा भवति संनिधिविपर्यासस्तदेतव्द्याकीर्णसंकीर्णयोस्तुल्यं, तदिदमुक्तम्—क्रमेण व्युत्क्रमेण वा । ननु ‘स्मोतरे 109 लङ् च’ इत्यनेन माशब्दादुत्तरं यत्र स्मशब्दप्रयोगस्तत्र लुङ्लङोर्विधाने पदक्रमनियमः कृतस्तत्कथं स्म ममेति प्रयुक्ते सोऽर्थः प्रत्येतव्य इत्यत आह—व्यस्त इति । विशेषेण लक्ष्यत इति विशेषणलक्षणं तस्य भावस्तत्त्वम् ॥