प्रकृतिस्थेति । ‘विभिन्न-’ इत्यादावपदलक्षणसूत्रे षण्णामिति व्यतिकर एकत्वेन नाभिप्रेतः । अपि तु ग्राम्यादित्रिकस्य वा प्रकृतिस्थादित्रिकस्य वेति विकल्पेनोपन्यासप्रयोजनमनुज्ञासंपत्तिस्तेन दोषताभावगुणीभावौ प्रतिपादितौ । विषयं दर्शयति—भाषाचित्र इति । संस्कृतादिव्यतिकरस्यापदत्वेनाभिप्रेतत्वात् संस्कृतादयो ग्राम्यादयः प्रकृतिस्थादयश्च भाषाशब्देनाभिमताः । यथा हि—नानावर्णारब्धमालेख्यचित्रं यथा वा भिन्नप्रकारतन्तुनिर्वातः पटश्चित्रपटस्तथा नानाभाषाभिरारब्धं किंचित्काव्यं चित्रमुच्यते । चित्रमाश्चर्यं तत्कारि च चित्रम् । तेन रूपद्वयसंपत्तौ युक्तिपोषः स्यादेवं यथौचित्याकृष्टनानाभाषाव्यतिकरजमेकं संभवतीत्याशङ्क्य/ संक्षेपात्सर्वं भाषासंकरमेवोदाहरति—यथेति । संकरमाचितीं च व्याख्यानेन स्फुटयति—अत्र ग्राम्य इति । ग्रामवासी किंचिव्द्युत्पन्नश्च । ग्राम्याश्च नगरवस्तुन्यद्भुतचमत्कारवन्तो जिज्ञासवश्च भवन्तीति जातिः । तत्र राजानं दृष्ट्वेति अद्भुतवस्तुकथनेन चमत्कारः । पृच्छतीति जिज्ञासा बहुमान आदरश्चमत्कारेणैव । यद्वा यान्पृच्छति तेष्वेव बहुमानो धन्यास्ते ये नामगोत्रादिकमेतस्य जानन्तः सततमेनमवलोक्यन्त इत्याशयात् । प्रस्तुतग्राम्यप्रकृतेश्चास्य प्राकृतपदैरेव प्रश्नो योग्यः । तदेतत्सर्वमादर्शयितुं प्रश्नं पृथक्कृत्य दर्शयति—हा तो इत्यादि । ‘हा तो’ इति महाराष्ट्रभाषायां प्रश्नकाकुरयं स इत्यर्थे । स इति यो नामैतन्नगरनायकत्वेनास्मद्ग्रामेऽपि वहुशो विख्यातकीर्तिरिति चमत्कारः । जो ज्जलदेउ इति । जिज्ञासासामान्यतश्च नगरसंचरिष्णुजनगोचरोऽयं प्रश्नः । अत्र सर्वाण्येव पदानि नातिहीनपात्रे ग्राम्ये प्रकृतिभवान्यपभ्रंशपदानि देशीपदत्वेन सर्वेषां ग्राम्यता । ‘हा तो’ इत्यनेन स्वरकृतगौरवम् । ‘जो ज्जलदेउ’ इत्येकसंयोगवर्णापादितगौरवं च प्रकृतिस्थं तदत्र प्राकृतग्राम्ययोरौचित्याकृष्टम् । प्रकृतिस्थे तु नौचित्यमुपयुज्यते । अपि तु संदर्भारम्भस्तेन प्रक्रान्त इति विवक्षितम् । अधिकस्य प्रष्टव्यस्याभावादेतत्प्रश्नानन्तरमेवोत्तरावसरः । ततश्च नानौचित्यम् । प्रश्नो-112 त्तरोपन्यासो हि प्रकृत्यैव च नागरका ग्राम्यमतविरोधिनो वक्रोक्तिरसिका भवन्ति । यदि तस्य ग्राम्ये जघन्यबुद्धिः किमित्युत्तरमेष दास्यतीत्यत उक्तम्—अनुजिघृक्षुरिति । सबहुमानं पृच्छति । ग्राम्ये यस्य दया तदानीमासीत् । जिज्ञासानिवर्तक्रज्ञानजननमनुग्रहः । यद्यपि नागरस्य नागराणि पदानि प्रयोक्तु53मर्हन्ति, तथापि ग्राम्यानुग्रहे कर्तव्ये तद्बोधयोग्यमेवाभिमतं न तु नागरकत्वम् । तर्हि ग्राम्यैरेव कुतो न ब्रवीतीत्यपि न वाच्यम् । सहसैव तथाकरणे ग्राम्यमतविरोधः । अपि तूपनागरकरूपभङ्गप्रसङ्गात्, ततो मध्यमान्युपनागराणि प्रयोगयोग्यानीत्याह—उपनागरैरिति । स्वभावत एव प्राकृतप्रकृतिस्थानां संस्कृतप्रकृतिस्थानां प्रौढत्वं भवति । तेन यद्यपि ग्राम्यप्रयुक्तजातीयान्येव संदर्भैकरूपतासिध्द्यर्थं घटयितुमुचितानि तथाप्यौचितीप्राप्तसंस्कृतपदनिवेशने यदि प्रकृतिस्थत्वमाद्रियेत ततश्छायावैरूप्यं स्यादित्याशयेन कोमलप्रायाण्येव निवेशितानीत्याह—कोमलैर्वेति । भूयसा व्यपदेशो भवतीति लोकन्यायानुसारात् ‘साक्षात्’ इत्येकस्य प्रकृतिस्थत्वेऽपि कोमलैरित्युक्तम् । साकाङ्क्षप्रश्ने च किमर्थं लोकोत्तरो ‘जो ज्जलदेउ’ नान्यः कश्चित्तादृगिति भावो विवक्षितस्तत्र नेत्येवोक्तेनानुग्रहः कृतः स्यादित्यधिकमपि किंचिद्वक्तुमुचितमित्याह—सवक्रोक्तीति । एतेन नागरकवृत्तिरुपबृंहिता । नैवेत्येवकारेण मनुष्य एवायं न भवति दूरे तद्विशेषरूपो ‘जो ज्जलदेउ’ इति प्रकाशितम् । साक्षादिति प्रत्यक्षेणावधार्यमाणः किंचिव्द्युत्पन्नत्वेन ग्राम्यस्योक्तत्वात् । कामव्यावृत्तसाक्षाद्भावलक्षणविरुद्धधर्मानुसंधानेन मदनदाहव्यतिकरता संभवतीति लब्धावसरं ग्राम्यानुयोगमवतारयति—अथेति । शिक्षाविशेषस्पर्शिनी बुद्धिः प्रतिभा । मामेकान्ततो नागरकवृत्तपरिचयपराधीनं मा शङ्किष्ठा इत्याशयशौटीर्येण नागरकप्रयुक्तजातीयैरेव पदैः प्रश्नो योग्यो न चैतावतैव सर्वथा प्रकृतित्यागोऽर्हतीत्यतः स्वप्रयोगयोग्यान्यपि प्रयोगमर्हन्ति तत्रार्धं प्रकृतिवैशसेनार्धं प्राकृतमर्धं ग्राम्यं च प्रश्नवाक्यानुचितमित्याह—पूर्वपदानुरोधादिति । पूर्वं परप्रयुक्तं पदं 54तर्कितम् । 55सच्चिमा सत्यः । यावती ग्राम्यस्य व्युत्पत्तिरर्हति तावतीमुपन्यस्यति—श्रूयत इति । ऐतिहासिकमुखादेवमाकर्णितं पुनरद्यापि निर्णयो वर्तत इत्यर्थः । तर्कितमिति प्रकृतिस्थम् । दीसईति कोमलम् । 56सच्चिमेति प्रकृतिस्थम् । हतवपुरिति कोमलम् । कामः किलेत्यपि तथा । श्रूयत इति प्रकृतिस्थमिति । अनन्तरं नागरिकस्योत्तरा-113 वसरः । कथं परमार्थवादिन्युत्तरं दातव्यमित्यनुपपत्तावयं समाधानप्रकारो भवति । अस्ति ग्राम्यस्य ‘किल श्रूयते’ इत्येताभ्यां संदिहानत्वं किंचिव्द्युत्पन्नत्वं चोन्नीतमिति किमप्यलीकमेव बुद्धिकौशलात्तथा प्रतीयमानमभिधाय प्रतारणमुपपद्यते । तन्मात्रपरत्वाच्च सर्वाकारमधिकाव्युत्पत्तिराहत्य दर्शयितुमर्हतीति तर्कितमित्यादिपदे यावती ग्राम्यस्य व्युत्पत्तिस्ताबदनुकरणं कियदधिकव्युत्पत्तिपुरस्कारमर्हतीत्याशयवानुत्तरमवतारयति—अथेति । पादस्तर्कितमित्यादिग्राम्यप्रयुक्तस्तस्यानुरोधो व्युत्पत्त्यनुकरणम् । पच्छा पश्चात् । ऐ एषः । ‘ऐ दूए’ इति पाठे दूअं व्याजोऽनेन व्याजेन । भूतपतिः पशुपतिः । ननु न क्वचिदेवं श्रूयते तत्कथं ग्राम्यस्य प्रबोधो भवतीत्याह—गौरीविवाहोत्सव इति । मा श्रूयतामुपपत्त्या तु सिद्धो द्वितीयो यदि कामप्रादुर्भावो न स्यात्कथं गौरीपाणिग्रहे भगवत उत्साह इत्यतस्तेनैव करुणासंतानशान्तात्मना भूयः सृष्टः स्यादित्यर्थः । पच्छेति प्रकृतिस्थम्, ऐ इति कठोरम्, किअलेउ इति कोमलम्, भूतपतिनेति तथा, गौरीविवाहोत्सव इति प्रकृतिस्थम् । 'एँदूएँ’ इति पाठे द्वयमपि कठोरम् । तदत्र कठोरनिवेशनं व्युत्पत्त्याधिक्यसूचनाय । एतावत्युक्ते परीक्षणव्युत्पत्तिर्न किंचिद्ग्राम्यं प्रतिभाति । न च तस्याद्यापि निःशङ्कता वर्तते । ततो नागरकप्रामाण्यदत्तभरः प्रश्नो घटत इत्याशयवानवतारयति—अथ ग्राम्य इति । प्रकृत्यापन्न एव, तेन यथा प्रथमं ‘हा तो’ इत्यादिप्रश्ने गतिस्तथात्रापीति ग्राम्यप्रकृतिस्थयोरुपन्यासः । भाषाचित्रेण परस्परसंघर्षादेककाव्यरचनाप्रवृत्तयोर्ग्राम्यस्यापि श्लोकश्लोकसमाप्तिपदारम्भो योग्य एव । यदि चायमेव समस्तं निर्वाहयन्नशेषशङ्कानिवृत्त्युपयुक्तमुत्तरं नागरस्य निवेशितं स्यादिति तदुत्तरानुरोधेन पादार्ध एव विलम्बोऽप्युचितः । ‘ऐसें’ एवमित्यत्रार्थे काकुगर्भम् । ‘सच्च जि बोल्लु’ इति जिरवधारणे । सत्यमेवैतदुक्तम् । यदि सत्यपुरःसरं ब्रूयास्तदा प्रत्येमीत्यर्थः । एवं ग्राम्यताप्रतारणसिद्धौ किमत्र सर्वलोकसाक्षिके वस्तुनि वक्रोक्त्यैव पूर्वव्युत्पत्तिमात्रनिवेशनेनोत्तरं दत्त्वा श्लोकपूरणमेव नागरस्योचितमित्याशयेनोत्तरमवतारयति—अथेति । हस्ते इति प्रकृतिस्थम्, कटकमिति कोमलम्, दर्पणेनेक्ष्यते इत्येते प्रकृतिस्थे, इति प्रकृतिस्थादीनां सुपरिचेयत्वाद्ग्राम्यादीन्येव व्याचष्टे—तत्र चेति । प्रकृतिव्यतिकराव्यतिकरत्वयोरौचित्यापन्नत्वाद्भाषासंकरः शोभावहत्वेन गुण एव भवतीत्युक्तमुपसंहरति—तदिति ॥

  1. ‘मर्हाणि’ इति स्यात्
  2. ‘तत् किम्’ इति स्यात्
  3. ‘सच्चमा’ इति सूलादर्शत्रये पाठः
  4. ‘सच्चमा’ इति सूलादर्शत्रये पाठः