अत्र ‘यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते इति वक्तव्ये, येयं वीराद्भुतरसवशप्रवृत्तेन ‘वदन्त एव हि वयं रोमा ञ्चिताः पश्यत’ इति वाक्येन प्रकृतवाक्योक्तेरसमाप्तावेव ‘विप्राय इत्यादिपदविच्छित्तिः सा रसान्तरतिरस्कृतिरित्युच्यते । तया चेदं वाक्यान्तरसगर्भमपि वाक्यं न दोषाय भवति ॥