वाक्यान्तरेति । रसान्तरं रसविशेषः प्रकृतरसानुसंहितो रसस्तेन तिरस्कारो दोषभावस्य, तस्मिन् सति तथाकृतं वाक्यमिष्टमेव कवीनामुपादानयोग्यमेव अन्यथा नेष्टं दुष्टमेवेत्यर्थः । तेनायमर्थो भवति—प्रकृतरसतिरोधायकत्वं किल दूषणताबीजं तदतिरोधानेनैव निवर्तते । प्रत्युत द्वितीयपरिच्छेदे वक्ष्यमाणगर्भादिवाक्ययोजनप्रकारसंपत्तावलंकारलाभे गुणत्वं भवति । तथा हि—दिङ्मातङ्गानां घटया विभक्ताः पृथगुद्भिद्य व्यवस्थापिताश्चत्वार आघाटा यस्यां सा, तथा तेन ‘सप्तद्वीपा वसुमती साध्यते’ इति विवक्षितम् । ये तावद्भरतभगीरथप्रभृतयः प्रथितप्रतापातिशयास्तेषां तद्दूषणपरिनिष्ठितशक्तीनामेकस्यापि समस्तक्षत्त्रवंशोन्मूलनेन नवखण्डमेदिनीसिद्धौ नोत्साहशक्तिः श्रवणगोचरतामयासीदिति लोकोत्तरा परशुरामस्योत्साहशक्तिरावेद्यते । 'सिद्धा सा च’ इत्यनेन यावदभिलषितं तावदेव सिद्धमित्यहो विजिगीषुतेति पूर्ववदेवाभिप्रायः । न चेदसौ सिद्धिमभिसंधाय प्रवृत्तः । अनुपदमेव सा संपन्नेति चकारेण द्योत्यते । एवमभिहिते ‘विप्राय57’ इत्यादिकमस्ति वाक्यशेषभूतम्, तद्विच्छिद्यैव मध्ये ‘वदन्त एव हि वयं रोमाञ्चिताः’ इति वाक्येन सगर्भता, सा न दोषाय । अनेन हि वाक्येन लोकोत्तरवस्तुभावनात्मकविभावसंपत्तौ प्रादुर्भवन् वक्तुमभिमतो रसो व्यज्यते । स च वीरानुसंधानहेतुर्वीराद्भुतयोः समानभूमिकयोरन्योन्यानुगमनेन प्रतिकूलता विरहता । तत्र यथा शृङ्गाररौद्रबीभत्सानामेक-115 प्रघट्टकेन सूत्रेण संनिपातितैरपि हास्यकरुणभयानकैर्न तिरस्कारः, ‘स्वाङ्गमव्यवधायकम्’ इति न्यायात्, तथेह वीरस्याद्भुतेनात एवाद्भुतादुद्वेलस्य प्रादुर्भूतपुत्रकाङ्कुरलक्षणानुभावप्रदर्शनम्—‘पश्यत’ इति । न चात्र दोषोदाहरणे ‘मया’ इति कारकविभक्तेरुत्थिताकाङ्क्षाया ‘रक्षैनम्’ इत्यादिना स्वरसंबाधस्तथात्र संभवति, 'सिद्धा’ इत्येतावत्यपि दर्शिते वाक्यार्थपर्यवसानात् । न च संपूर्णे रसे ‘वदन्त एव’ इत्यादिकमभिधातुमर्हति । अद्भुतता च पार्थिवानुभावस्य तन्मात्रपूरणापेक्षत्वात् । एवं रसानुभावनातृप्तस्य तत्रैव पुनः पुनरुत्कण्ठायां जिगीषुकरणीयलव्धपात्रप्रतिपत्तिविशेषस्फोरणे ‘विप्राय प्रतिपाद्यते’ इत्युक्तम् । दानवीरोऽपि वीर एव । अत एवाधिकस्य कर्तव्यस्याभावे किमपरमित्यादिरुपसंहारः । तदेतत्सर्वं व्याचष्टे—अत्रेति ॥

  1. ‘ऽभिप्राये’ इत्यादर्शे पाठ आसीत्