यद्भिन्नेति । दोषप्रकरणानुरोधेन समस्तव्यस्तोदाहरणं बोद्धव्यम् । सहृदयोद्वेजकत्वेन हि दोषता । यत्र तु कथंचित्तथाभावो न भवति, तत्र दोषत्वहानिरुचितैव । तथा हि स्त्रीपुंसयोरेव प्रकृतानुगुणोपमानोपमेयभावविवक्षायामावश्यकं लिङ्गवंचनभेदयोरन्यतरदेकस्य पुंस उपमेयत्वेन दारशब्दस्य भिन्नवचनत्वनियमात्कलत्रपदं भिन्नवचनमेव । पर्यायाणामपि लिङ्गभेदो नियतः । न च पुंवचनं किंचित्समानस्वभावमस्ति येनायं प्रकारो निवर्तेत । न चैवंविधोपमामन्तरेण प्रस्तुतवाक्यार्थपोषः । एवमनन्यगतिका भिन्नलिङ्गता भिन्नवचनता वा साहित्यसमयविदामुद्वेगं नोत्पादयति । अत एवालंकारौचितीसंपदा गुणत्वसिद्धिः । एवं शमलज्जयोः पराक्रमवैयात्ययोः परिभवसुरतयोश्च बोद्धव्यमित्याशयवान् व्याचष्टे—अत्रेति । ‘रतं, रहः, शयनं, मोहनम्’ इति सुरतवाचिनां सर्वेषामेव नपुंसकता न दुष्यतीति सहृदयहृदयानुद्वेजकत्वादिति हेतुर्गुणत्वेत्वाभिप्रायिकः । स च दर्शित एव । अथेति । धर्मार्थकामास्त्रिवर्गः । वह्निविध्मापनचर्मपुटो भस्त्रा सा यथा वातेन पूर्यते, वातं च मुञ्चति, न तु किंचित्पुरुषार्थमासादयति, तथा त्रिवर्गशून्येऽपि भस्त्रापर्यायस्य समानलिङ्गस्याभावेन सहृदयानामनुद्वेगालंकारसंपत्त्या गुणत्वमुपपन्नमित्याह—अत्र प्राग्वदेवेति । 58अदोष इत्युपलक्षणम्, गुणश्च भवतीत्यपि बोद्धव्यम् ॥

  1. ‘न दोषः’ इति मूलपुस्तके