अत्र ‘नेमिरन्येऽपि’ इति वचनभेददोषेऽपि ‘ददताम्’ इति क्रियापदादेर्वचनश्लेषमाहात्म्याद्गुणत्वम् । न चेदं वाच्यमत्रेवादिर्न विद्यत इति नोपमात्वम् । इवस्यापिना समुच्चयार्थेन तुल्यधर्माणां तु ‘धर्मस्य प्रभवः’ इत्यादिभिर्वचनश्लेषैर्विषयापहारात् । यथा अग्रतो द्योतकलोप उपमायाम्—'कोमलापाटलौ तन्वि पल्लवश्चाधरश्च ते ।’ नन्वेषोऽपि श्लेषः कस्मान्न भवति । उच्यते—‘यत्र द्वयोः सदृशयोरभिधानं स श्लेषः । यत्र सदृशात्सदृशप्रतिपत्तिस्तदुपमानम्, यत्र द्वयोः सादृश्यमभिधीयते प्रतीयते वा 117 सोपमा’ इति प्रबन्धेनाग्रतो वक्ष्यामः । उपलक्षणं चैतत्—यदुपमायामेव लिङ्गवचनभेदो न दूषणमिति । तस्य सर्वालंकारसाधारणत्वात्केवलं 59सादृश्यमलंकार इति दर्शने उपमायामुदाह्रियते ॥

  1. ‘सादृश्यमात्र’ ग