प्राज्येति । आर्हतानां नेमिनामा जिनविशेषोऽन्ये जिना ऋषभनाथप्रभृतयः प्राज्यमुचितं तथाभूतः प्रभावः सिद्धिरूपो यस्य तादृशो नेमिः शिवं ददतां ददातु । 'दद दाने’ इति धात्वनुसारात् । कस्मै इत्यपेक्षायां मुक्तात्मा इत्यत्र नः । पक्षे वो60 युष्मभ्यं शिवं ददतां ददत्विति । धर्मस्य 61प्रभवमुत्पत्तिनिमित्तं नेमिः । प्रभवः प्रभुता यथावदनुशासनेन जिनाः । रजश्च तमश्च रजस्तमसी ते अस्ते क्षिप्ते येन स तथाभूतो नेमिः । अस्तं रजो यैस्तेऽस्तरजसस्तेषु प्रकृष्टास्तमप्यरजस्तमाः । मुक्तो निरावरण आत्मा आत्मशब्द आत्मवचनः स्वरूपवचन इति वा बहुव्रीहिस्तादृशो नेमिः । जिनास्तु मुक्तात्मान इति स्पष्टम् । तदिह वचनभेदमन्तरेण वचनश्लेषाभावाद्भिन्नवचनत्वस्यावश्यकत्वेन दोषः । श्लेषलक्षणालंकारघटनया गुणत्वम् । ननु च लिङ्गादिभेद उपमाया दूषणत्वमुक्तम्, इह त्वलंकारान्तर उदाह्रियते, तत्कथं पूर्वापरसमञ्जसत्वम् । न चात्रोपमा संभवति, तत्सामग्र्यसंभवात् । उपमानोपमेयसाधारणधर्मेवादिशब्दाः किल तद्धटकाः । तदत्र त्रितयसंबद्धे62 त्वपीववद्वाप्रभृतिंशब्दानुपादानात्कथमुपमेति शङ्कामुत्थाप्य निरस्यति—न चेति । इवादयो हि शब्दाः सादृश्यद्योतकाः । तथा च क्वचित्प्रसिद्धस्य प्रकृते संबन्धप्रतीतिस्तेभ्यो भवति बिम्बप्रतिबिम्बन्यायाश्रयणात् । एवं च न युगपत्तुल्यरूपसंबन्धः । अपिशब्दस्तु युगपत्तुल्यरूपसंबन्धं बोधयतीति विभिन्नविषयत्वम् । नहीवादिशब्दाभावे सादृश्यमेव न प्रतीयते, लुप्तोपमाप्रपञ्जभङ्गप्रसङ्गात् । अन्यत एव प्रतीतिसिद्धेरुपायान्तरवैयर्थ्यात् । किमितीह नेवादिपदं प्रयुक्तमिति प्रश्नोऽवशिष्यते तत्रेदमुत्तरम्—इवस्येत्यादि । नेमिरन्येऽपीत्यपिशब्देन समुच्चयोऽप्यवसीयते । स च युगपदेकसंबन्धाभिधाने निर्वहति । तेनानेकमुद्दिश्य किंचिदेकसंबन्धाभिधानं समुच्चयाभिधायिनो विषयः । एकमुद्दिश्य प्रसिद्धान्यध63र्मविधानं तु यथेवादिरिति विषयविरोधान्न प्रयुज्यत इति । स्यादेतत्— इववद्वायथादिशब्दा 118 यत्परास्तस्यैवोपमानताप्रतीतिस्तथा चानेनेदं तुल्यमिति साधारणधर्मविधिरूपा कथमुपमेत्यत उक्तम्—तुल्यधर्माणां त्विति । नात्र वचनश्लेषतुल्यधर्मागमः, अपि तु तथा ‘व्यवस्थितानामेव शब्दतन्त्रता’ इति ‘धर्मस्य प्रभवः’ इत्यादिभि64र्द्विवचनश्लेषैस्तथापि विषयोपहृत इति । यदि चेवादिमन्तरेण नोपमाप्रतीतिस्तर्हि प्रसिद्धमुपमोदाहरणं भज्येतेत्याह—यथेति । अग्रतश्चतुर्थपरिच्छेदे । अत्राप्युपमामनङ्गीकुर्वतो मतमाशङ्कते—नन्विति । इहापि चकाराभ्यां युगपत्पल्लवाधरयोरेकधर्मविधानस्य तुल्यत्वादिति देश्याभिप्रायः । उक्तयुक्तया दूषयति—उच्यत इति । तर्हि प्रकृतोदाहरणे नास्त्येवोपमा, कथं वचनभेदस्य गुणीभाव उदाह्रियत इत्याह—यत्रेति । यद्यप्यभिधीयमानं नास्ति सादृश्यम्, तथापि प्रतीयमानोपमा व्यवह्रियतामित्यर्थः । शब्दमात्रसाम्यं श्लेषसंकीर्णमेवेत्युपेक्षितवान् । ननु यत्रोपमया काव्यव्यपदेशस्तत्र प्रतीयमानमपि सादृश्यमूरीक्रियते । यत्र त्वलंकारस्वभावव्यवस्थापितमेव काव्यं न तत्रापीत्याह—उपलक्षणमिति । प्रतिपत्तिवैरूप्यस्यालंकारान्तरसाधारण्यादुपमातोऽन्यत्रापि लिङ्गवचनभेदो दूषणमेव । तद्यथा 'मुखं पद्मम्’ इति रूपके, ‘मुखं पद्मं वा’ इति संशये, ‘न मुखं पद्ममेव’ इत्यपह्नवे । एवमन्येऽपि । अत एव द्वे भिन्नलिङ्गवचने इत्यत्र नोपमाग्रहणम् । यद्येवं कथमुपमायामेव दूषणमुदाह्रियत इत्यत आह—केवलमिति । चिरंतनैर्हि भरतमुनिप्रभृतिभिर्द्वे एव यमकोपमे शब्दानुगतालंकारत्वे नेष्टे । तत्प्रपञ्चनमात्रं तु पुनरन्यैरलंकारकारैः कृतमुपमायाः प्रभूतविषयतया प्राधान्याच्चोदाहृतमतिस्फुटं भवतीति संक्षेपः ॥

  1. ‘नोऽस्मभ्यं’ इति स्यात्; यद्वा ‘नोऽस्मभ्यम्’ पक्षे ‘वो युष्मभ्यम्’ इत्येव पाठे ‘प्राज्यप्रभाः’ इति प्रथमान्तमपि पृथक् कल्पनीयम्
  2. ‘प्रभव उत्पत्ति—’ इति स्यात्
  3. ‘बद्धेऽपीव’ इति स्यात्
  4. ‘धर्माभिधानं तु यथेवादे’ इति स्यात्
  5. ‘र्भिहिं वचनश्लेष’ इति स्यात्