यदेति । प्रयतनं प्रयत्नः स्थानकरणव्यापारस्तस्य तीव्रत्वमुद्रेकस्तत एव हि पिण्डाक्षरादीनामकठोरत्वमाभासते । आदिग्रहणादिवहिकारौ70 सानुस्वारौ च केवलौ पदान्ते वर्तमानौ तत्तद्भाषाविषयेऽवसेयौ । क्वचिदेव हि वर्णे तथावभासते न तु सर्वत्र । तदुपलक्षणमेव ‘रह वंजणसंजोए’ [ ‘रहौ व्यञ्जनसंयोगे’ ] इत्यादिकं छन्दोविचितौ दर्शितम् । जहेति । स्नातुमवतीर्णे त्वयि अंशुकार्धमुद्भ्रष्टं सदब्भन्तमार्द्रोभूतं यथा चलत्वं71 स्थितेस्तथावगम्यते न त्वन्तर्जलं जलकेलिस्थानमवतीर्ण इत्यभिप्रायशेषः । कथमन्यथा गोदावरीनद्याः स्वच्छं जलं दृश्यते इति । तूहं तीर्थम् । अत्र द्वितीयैकादशादिस्थानेषु यद्यपि संयोगात्पूर्वभावे गुरुत्वं विद्यते-121 र्तथापि तीव्रप्रयत्नोच्चारणीयशकारहकारादिसंयोगमहिम्ना नावच्छेदश्रव्यता कलुषीक्रियत इति । एवमन्यदप्युदाहार्यम् । यथा—

‘धबलाइं गलेत्ति धवलेहिं अणञ्जणसामलेहि णिसालआए ।
णखवत्तकुसुमाइं णहअलाओ ओसरइ ॥’

इत्यादि नामधातुभागे स्वरासंधाने च पठितिविच्छेदो न भवतीत्युक्तं स 72तदुल्लंङ्घनमात्रेण समाधीयते शोभां पुष्यतीति ॥

  1. ‘इहिकारा विन्दुजुआ’ इति प्राकृतपिङ्गलोक्त्या ‘इकारहिकारौ’ इति; ‘इहिकारौ’ इति वा पाठः
  2. ‘लब्धम्’ स्यात्
  3. ‘मुल्लङ्घ्य’ स्यात्