कार्याकार्येति च नामभागमुल्लङ्घ्य विच्छेदश्रव्यता च परस्य यणादेशेन ‘किंचिद्भावा’ इति ‘नृप’ इति च स्वरसंधाने विच्छेदोऽत एव श्रव्यत्वमपि । तदेतव्द्याचष्टे—अत्रेति । ‘मन्दाक्रान्ता मभनतयुगं गद्वयं वेददिग्भिः’ इति चतुर्थदशमयोर्यतिराम्नाता । पञ्चमस्थान इति । प्रथमतृतीययोर्द्वितीये तु षष्ठे यतिकरणादिति बोद्धव्यम् । ननु पदच्छेदे स्वरसंधानपठितिविरामः सोल्लेखो लक्ष्यते, न तु चतुष्पादे तथास्तीति कथं श्रव्यत्वमत आह—लुप्त इति । संधौ विकारो यत्वयलोपादिकं कार्यं, तथा च पदान्ते सति पदच्छेद एवायमिकारोऽवतिष्ठत इत्यर्थः ॥