अत्र त्रिषु पादेषु पदानि 75क्रियापदं नापेक्षन्ते । सापेक्षं चासमर्थं भवति । चतुर्थे तु नहीत्यादिभिः सन्तीत्यपेक्षते76 न चैतावतामीषामसामर्थ्यं भवति । यदाह—‘यत्रान्यत् क्रियापदं नास्ति, 77तत्रास्ति भवतीति पदं प्रथमपुरुषे प्रयुज्यते’ इति ॥

  1. क्रिया विशेषक्रिया । क्रियासामान्यवाचकपदं तु ‘तिङ्समानाधिकरणे प्रथमा’ इत्युक्त्यनुसारेण प्रथमासिध्द्यर्थमपेक्षितमेव । अतएव ‘सापेक्षम्’ इत्याद्यग्रिमग्रन्थसंगतिः
  2. ‘प्रेक्ष्यते’ इति स्यात्
  3. ‘अस्तिर्भवन्तीपरः प्रथमपुरुषः’ क