अशरीरमिति । प्रधानाविमर्शे हि दूषणमित्युक्तं तदुपात्तानामेव पदार्थानां प्रधानगर्भीकरणे तत्प्रतिबन्धेऽवश्यविधेयमन्यं प्रति गुणीभावे वा समाधीयते । अत एव विशेषाद्गुणत्वम् । तथा हि—‘कियन्मात्रं’ ‘जानुदघ्नम्’ इत्यनयोः 78परिमितम् । क्रिया प्रधानगर्भभूता । ‘नहि सर्वे भवादृशाः’ इत्यत्र तु सत्ताक्रियायाः सकलपदार्थाव्यभिचारात् ‘अपेक्ष्यते’ इति सिद्धिः । तदिदमाचार्यमतेनाह—यत्रान्यदिति । भवन्ती वर्तमाना । तदेतद्वाक्यं क्रियाप्रधानमिति 79ददर्श ‘स80 प्रधानं 123 विशेष्यमात्रं तु वाक्यार्थे’ इति परमार्थः । तेन ‘राधा रहः साक्षिणाम्’ इत्यादावावश्यकविधेयसाक्षिभावादिगुणतया राधासंबन्धादीनां वैवक्षिकप्राधान्यानामपि प्रधानत्वाविमर्शो न दोष इत्युक्तं भवति ॥

  1. ‘परिमितिक्रिया’ स्यात्
  2. ‘दर्शने’ इति स्यात्
  3. ‘सा’ इति स्यात्