समस्तमिति । उपक्रान्तरीतेरनिर्वाहे 89मधुररसपर्यन्ता प्रतीतिः स्खलतीति दूषणताबीजमुक्तम् । तथाभूतरसानुगुणव्यभिचार्यनुप्रवेशव्यञ्जनौचित्यादुपक्रमनिर्वाहः सर्वस्वायमानो गुणतामासादयति । तथा हि—प्रसीदेत्यादौ प्रणयकेलिकुपितकामिनीप्रसादनायां शृङ्गारविरोधिसमासव्यतिकरेण रीतेरप्यपक्रमे रोषलक्षणभावानुभावभूः90 स्तनकम्पवर्णनायां समासोऽनुप्रविष्ट इति व्यक्तः पूर्वरीतेरनिर्वाहः । रसान्तरं प्रकृतविजातीयरससंबद्धो व्यभिचारी भावः ॥

  1. ‘मधुरसपर्यन्ता’ इति स्यात्
  2. ‘भूतस्तन’ स्यात्