यद्प्रयोजनमिति । प्रबन्धार्थपोषा96नाधायकवाक्यमप्रयोजनम् । अर्थंलाभप्रतिपादकतया कृतकरं व्यर्थम् । एवकारो भिन्नक्रमस्तच्छब्दानन्तरं द्रष्टव्यः । दृश्यत इत्यनेन तत्र तत्र प्रकृतसंगतौ सत्यां दोषाभावोऽवसेय इति दर्शितम् । यद्यपि भगवद्गीतायां मोक्षाधिकारिणामस्त्येव प्रकृतशान्तरसपरिपोषकत्वम्, तथापि तदन्तर्गतानां भूयसामाहत्य नास्ति । भीष्मविदुरवाक्यानां तु धर्माधिकारे प्रकृतानां व्यक्त एव निष्प्रयोजनप्रस्तावः97 । सोऽयं यथा समाधीयते तद्विवृणोति—अत्रेति । इतिहासरूपे प्रबन्धे सत्यपि शान्तस्य वाक्यार्थाभावेन बहूनामितिहासानां त्रिवर्गाधिकारित्वाच्चतुर्वर्गप्रतिपादनमेव महर्षेरभिमतम्, धर्मादित्रितयस्य च प्रासङ्गिकतया न पूर्ववदस्यार्थैकताविरोधः । तदिदमुक्तम्—व्याजेनेति । एवं च व्युत्पादयितव्यविषयजिज्ञासोपादाने धर्मार्थप्रवृत्तये वाक्यमिदं सफलतामासादयद्गुण एव भवति ॥

  1. ‘पोषो नाधायक’ पाठः
  2. ‘स्तावः’ पाठः