अविशेषेणेति । पूर्वोक्तपूर्वोक्ताभिन्नतात्पर्यकमविशेषेण तात्पर्यावृत्तिप्रयोजनमन्तरेण तन्मयीभवनं चेतस आक्षेपः । ‘असारं संसारम्’ इत्यनेन स्थावरजङ्गमप्रपञ्चस्य निःसारतां प्रतिपाद्य ‘जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते’ इति । 'परिभुषितरत्नम्’ इत्यत्रापि तावानेव तात्पर्यार्थः । एवं ‘निरालोकं लोकं', ‘जगज्जीर्णारण्यम्’ इत्यत्रापि द्रष्टव्यम् । सुगममन्यत् ॥