वाक्य इति । अर्थानां कार्यकारणभूतानां तेषामेव पौर्वापर्यनियमाद्य इति पूर्वार्धेऽध्याहार्यम् । चित्रहेताविति प्रसिद्धरूपविपर्यासेन हेतुवचनद्वारा प्रकृतवाक्यार्थपरिपोषाधानं चित्रहेतुः । पर्यस्य विस्तार्य चन्द्रोदयरागोद्दीपनयोः सत्यपि हेतुहेतुमद्भावेन पौर्वापर्ये प्रथमं रागसागरः पश्चाच्चन्द्रमण्डलमुदीर्णमिति विपर्यासप्रतीतिसमसमयमुद्दीपनविभावनानुसंधानाद् हिमांशोरतिशीघ्रकारिताप्रकाशनात् प्रकृतशृङ्गाररसो दीप्यते । एवं कुलकादिरूपं प्रबन्धान्तर्गतवाक्येष्वपि गुणत्वमवसेयम् ॥