यस्मिन्निति । वाक्यार्थस्य धर्मिणो यदलंकारभङ्ग्या प्रक्रमस्थया निर्वहणाभावः खेदः । स तु पूर्वालंकारविश्रान्तौ प्रतीतेरस्खलने न दोषः । गुणत्वं च तस्य भङ्ग्यन्तरैरपि प्रकृतालंकारे ध्वननात् । तथा हि—‘अभिनववधूरोषस्वादु असरलजनाश्लेष इव क्रूरः’ इत्युपमानानि सामान्यवचनैः समस्यन्त इति समासद्वयेनोपमामुपक्रम्य मलिनविभवस्याज्ञेवेति समासत्यागाद्विरहिवनितावक्रक्लैब्यं बिभर्तीति चान्तरधर्मारोपेण चोपमात्यागात्सत्यपि रीतेरनिर्वाहे उपमायामेव पर्यवसानं समाधानहेतुः । गुणत्वहेतुमाह—व्याख्यापरत्वेनेति । गलितविभावाज्ञामसृणेति समासे कर्तव्ये योऽयमिवशब्दप्रयोगः स इवार्थे पूर्वौ समासौ बोधयति । क्लैब्यं 132 बिभर्तीति सामान्यालंकारे कथमन्यधर्ममन्यो वहतीति प्रतिसंधानसमसमयं वक्रक्लैब्यमस्येत्यन्तर्गतोपमाप्रकटीभावे उपमासमासपदयोरपि सा प्रतीयते इति सेयं कविचातुरीप्रतीयमानच्छायामेव पुष्णाति । तदिदमुक्तम्—प्रत्युतेति ॥