विद्यामिति । या रात्रौ विद्यामभ्यसतो मन्त्रमावर्तयतस्तव प्रिया समायाति सा यक्षिणी । अतः कथं ते धनं पेलवं कोमलम् । खल्पमिति यावत् । किं तु यक्षिणीप्रसादाद्बहु धनं तवोचितमित्यर्थः । प्रकृतपदानि त्वसभ्यार्थान्तराणि तान्युद्धृत्य व्याचष्टे—तदेतद्या भवतः प्रियेति । असभ्यार्थप्रकाशनमेव षष्ठ्या आक्रोश इत्यर्थः । या भवतः प्रियेति एकं पदं याभो मैथुनं तद्वतः प्रियेत्यर्थात् । योनिर्वनिताया गुह्यस्तस्य केशाः । पेलशब्दो मुष्कयोः प्रसिद्धः । तत्र बन्धनमिति ॥