असभ्यार्थान्तरं यथा—
तदेतद्या भवतः प्रिया गुह्यकेशानां पेलबन्धनशव्दानामसभ्यार्थान्तरत्वादसभ्यार्थान्तरम् ॥
विद्यामिति । या रात्रौ विद्यामभ्यसतो मन्त्रमावर्तयतस्तव प्रिया समायाति सा यक्षिणी । अतः कथं ते धनं पेलवं कोमलम् । खल्पमिति यावत् । किं तु यक्षिणीप्रसादाद्बहु धनं तवोचितमित्यर्थः । प्रकृतपदानि त्वसभ्यार्थान्तराणि तान्युद्धृत्य व्याचष्टे—तदेतद्या भवतः प्रियेति । असभ्यार्थप्रकाशनमेव षष्ठ्या आक्रोश इत्यर्थः । या भवतः प्रियेति एकं पदं याभो मैथुनं तद्वतः प्रियेत्यर्थात् । योनिर्वनिताया गुह्यस्तस्य केशाः । पेलशब्दो मुष्कयोः प्रसिद्धः । तत्र बन्धनमिति ॥
असभ्यस्मृतिहेतुर्यथा—
तदिदं काटवकृकाटिकापादयोरसभ्यस्मृतिहेतुत्वादसभ्यस्मृतिहेतुता ॥
उत्कम्पयसीति । हे चूतवृक्ष, कोकिलस्य वाचा कटुत्वेन दुःखदायित्वात् किं मां भापयसि । ननु तव कृकाटिकायां प्रीवायां पादं दत्त्वा चलिता मम प्राणास्तेन मया जितम् । व्यर्थस्तवायं परिश्रम इति वाक्यार्थो विवक्षितः । काटवशब्दे काट एकदेशः कृकाटिकाशव्दे काटिकेति लोपः । काटः काटिका ॥
तेष्वशस्तार्थं यथा—
अत्र मरिष्यामीतिपदमशस्तार्थम् ॥