कामशास्त्रेति । लयवैषम्यादिति गीतस्य कलाप्रकथनात्तस्य च विषमलयस्यारञ्जकत्वात्कथं रागवर्धनमिति दूषणं दोलागतागतत्रस्तकामिनीगीतप्रभावोक्तेश्चमत्कारित्वात्तिरोधीयत इति गुणभावं च नीयते । भावान्तरालवर्ती कामो लयः ॥