वाक्यान्तरपदैरिति । वाक्यान्तरसंवलितानि पदानि वाक्यान्तरमनुप्रविश्य तथा प्रतीतिं विघ्नन्ति, यथा समुदाय एव दूषितो भवति ॥ काकमिति । कूरं भक्तं क्षुधितः खादति, काकं च निर्भरं रुष्टः सन् क्षिपति, श्वानं च निवारयति, नप्तारं च कण्ठे गृह्णाति स्थविरजातिः ॥ आकाङ्क्षाक्रमेण किंचित्पदं कस्यचिद्वाक्यस्य संबद्धमिति ज्ञायत एव । तदाह—अत्र काकं क्षिपतीति । शब्ददोषत्वं प्रकाशयति—इति वक्तव्य इति । यथोक्तपदविन्यास इत्यनेन संकीर्यत इत्यस्यार्थो विवक्षितः । एवंप्रकारः संकर इत्यर्थः । विजातीयसंवलने लोके संकरव्यवहारः ॥