विभिन्नेति । षोढा पदं भवति—प्रकृतिस्थम्, कोमलम्, कठोरम्, ग्राम्यम्, नागरम्, उपनागरं च । तत्रानेकदीर्घस्वरकृतगौरवमेकसंयोगकृतगौरवं पदं प्रकृ-023 तिस्थम् । यथा—नीहारतारानीकाशसारसीत्यादि, हस्तपल्लवकङ्कणकर्पूरादि च । यथा च—पाडिव आमाण सिणिवं आलगोलेत्यादि, त्यज्झतुज्झउत्ताविलविहत्थतिअच्छेत्यादि च । एकस्वरकृतगौरवं गुरुशून्यं वा कोमलम् । करेणुतारकसरोजनिकरादि, मधुरमसृणसरससरलेत्यादि च । यथा—नीहारबाण इवाणवेणीत्यादि, परकुअलडहतलिणेत्यादि च । सानुस्वारविसर्गदीर्घस्वरकृतगौरवं संयोगबहुलं वाक्कठोरम् । यथा शुद्धं पयः पाचयांबभूव ता पिब, आहिषातामित्यत्र । अच्छाच्छतत्रस्थव्यूढोरस्कप्रच्छन्नेत्यादि च । यथा च—आ ई इ ए इत्यादि । उप्पिच्छउप्पुपुअएक्कमेक्कमित्यादि च । प्रसिद्धिमादाय ग्राम्यादित्रयं भवति । प्रसिद्धिस्त्रिधा । सार्वलौकिकी, पण्डितजनगामिनी, तदुपजीवित्रिचतुरलौकिकगामिनी चेति । तत्र सर्वलोकप्रसिद्धं ग्राम्यम् । देशीपदानि सर्वाण्येव संस्कृतेषु हस्तविवाहभगिनीहारकङ्कणादिकम्, तुंभ अंभ हलिद्दासाहज्जादिकं च । एतदपभ्रंशसमानप्रसिद्धिकमतिप्रसिद्धं चेति गीयते । ग्राम्यवैपरीत्येन नातिप्रसिद्धं नागरं नगरेणोपमितमिति कृत्वातिप्रसिद्धाभावेनोपमा । इदमेव नात्यप्रसिद्धमुपनागरमित्युच्यते । यथा—आद्याशकिंशारुखुरलीलातङ्केत्यादि, सुदेवअच्छेवगुप्पन्ती विवलाआ इत्यादि च । शृङ्गारप्रकाशे तु भाषाणामपि भेदो पदमित्युक्तम् । इह तु शब्दजात्यौचित्याविवेचनेन गतमिति ग्रन्थकर्तुराशयः । तदेवं स्थिते प्रतिपदं कवीनां कोऽपि क्रमो निर्वाह्यो न त्वकस्मादेवालूनविशीर्णभावो विधेयः । तदिदमाह—विभिन्नेत्यादि । युक्तिरुचिता योजना सा प्रकृतिस्थादीनां विभिन्नान्यथानीतात्युक्तिरिति यावत् । एतद्वक्ष्यति—अयुक्तेरिति ॥ आउज्झिअ इति । आवर्ज्य केशेषु नमयित्वा । ‘आउज्झिए’ इति पाठे निर्भर्त्स्य । पिट्टिअए ताड्यते । जह कुक्कुलि यथा कुर्कुरी नामशब्दः प्राकाश्ये प्रकाशमेव ताडितमित्यर्थः । मज्झ भत्ताले मम भर्ता । पेक्खन्तह लाउलकण्णिआह । अनादरे पष्ठी । राजकुलनियुक्तान् प्रेक्षमाणाननादृत्येत्यर्थः । हाशब्दः खेदे । कस्य क्रन्दामि । कस्य फूत्करोर्मात्यर्थः । अत्र प्रथमे पादे आउज्झिए, इत्युपनागरं प्रकृतिस्थं च । ‘आउज्झी’ इति पाठे ग्राम्यं प्रकृतिस्थं च । भत्ताल इल्यपि तथा । तृतीयपादे पेक्खन्तहेति कठोरमुपनागरं च । राउलकण्णिआहेति ग्राम्यं प्रकृतिस्थं च । हेति ग्राम्यं कोमलं च । कस्सेति प्रकृतिस्थमुपनागरं च । कन्देमीति ग्राम्यं प्रकृतिस्थं च । तदिहैकरूप एव कर्मकरवधूलक्षणे ग्राम्ये वक्तरि एकरूप एव वाक्यार्थे सर्वदोषतिरोधायकरसदीप्त्यभावे च यथा भाषाणां व्यतिकरो दूषणं तथा ग्राम्यादीनामिति सहृदयमात्रवेद्यश्चायं पन्था इत्यवहितैर्भवितव्यम् । एतेषां च 024 स्वरूपं स्वयमेव गुणीभावप्रस्तावे लेशतः प्रकाशयिष्यति तेनेह संक्षिप्तवान् । नैवंविधः कदापि व्यतिकरो महाकविगिरामाजानिकः प्रवर्तते । तथा हि—‘त्यजतो मङ्गलक्षौमे दधानस्य च वल्कले । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥’ अत्र प्रथमादिषु पादेषु क्षौमचीरविस्मितरागपदानि उपनागराणि शेषाणि ग्राम्याणि । प्रतिपादं च प्रकृतिस्थकोमलाभ्यामेव निर्वाहः । एवमन्यत्रापि प्रत्येकं द्वन्द्वसमुदायैः प्रतिपादमुपक्रमोपसंहारनिर्वाहक्रमः स्वयमुपलक्षणीय इत्यास्तां तावत् ।