भग्नच्छन्द इति । वाचां श्रव्योऽवच्छेदश्छन्दस्तस्यैवोपमानयुक्तादयस्तेनैव गुरुलघुनिवेशक्रमेण श्रव्यता भवतीत्याशयात् । तस्य विपर्यासश्छन्दोभङ्गो व्यक्त एव वैरस्यहेतुः प्राहुरिति । पञ्चोदाहरणत्वावच्छेदविपर्यासत्वे च भग्नवृत्तव्यवहारादिदमेव निमित्तमस्यावधार्यत इत्यर्थः । पञ्चेति । पञ्चजनाः पुरुषास्ते देवपितृगन्धर्वराक्षसासुरभेदात्पञ्च । अथवा निषादपञ्चमब्राह्मणादिचतुष्टयभेदात् । तमेवात्मानं ब्रह्मापरपर्यायं विज्ञाय श्रवणमनननिदिध्यासनैरुपास्य प्रज्ञां प्रकृष्टं ज्ञानं साक्षात्कुर्वीत ॥ अत्र पञ्चमवर्णस्येति । ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरुं विजानीयाच्छेषास्त्वनियता मताः ॥’ इत्यनुष्टुप्छन्दसो लक्षणम् ॥