शब्देति । शब्दाः शिष्यन्ते प्रकृतिप्रत्ययविभागपरिकल्पनया ज्ञाप्यन्ते येन तच्छब्दशास्त्रं त्रिमुनिव्याकरणं तेन विरुद्धं तदाम्नातप्रातिस्विकविशेषपरित्यक्तमतो न देशीयपदानामसाधुत्बम् । तथा च प्राच्यैः—‘नाथ ते कुचयुगं पत्रावृतं मा कृथाः’ इति अन्यकारकवैयर्थ्यमिति, ‘सलीलपाणिद्वयलोलनालमानर्तिताताम्रदलं दधन्तीम्’ इति च तादृशमेवोदाहृतम् । अत्र केचिदाहुः—‘बाधतिधातुं संस्कारप्रच्यावनेन 005 बाधते इति बाधतिबाधस्तस्य संबोधनं बाधतिबाधेति । ते तव । वचनमिति शेषः’ इति, तदसत् । नेयार्थत्वप्रसंङ्गात् । अन्ये तु ‘बाधतिर्बाधते यथा’ इति पठन्ति । इदं तत्त्वम् । विद्यमानस्यार्थवत्त्वस्याविवक्षायां गवित्ययमाहेत्यादाविव प्रातिपदिकसंज्ञा न प्रवर्तते ॥