वाक्यमिति । संपूर्णं वाक्यत्वमर्थव्यक्तिं करोतीति वक्ष्यति । सर्वस्य वाक्यस्य विशेषणविशेष्यभावबोधकत्वनियमे यावतां विशेषणविशेष्यभावोऽभिमतस्तावत्प्रतिपादकपदोपादानं संपूर्णता । सा च विशेषणविशेष्यभावानुरूपार्थनिरूपणीयतयार्थप्रधानेति तद्विपर्ययोऽपि तत्प्रधान इति पूर्ववन्नेयम् । अत एव विवक्षितवाक्यान्यथानुपपत्त्या नेयः कल्पनीयोऽर्थो यस्येति नेयार्थमित्यर्थोऽपि घटते । महीति । पूर्वार्ध एव काव्यं निर्वर्तितम् । न च तावता विवक्षितार्थलाभः । तथा हि—समुद्रमध्यात्पृथिव्यामुद्ध्रियमाणायां महासुरविमर्दे तेषां दंष्ट्रया पाटनेन रुधिरशबलतया लोहितत्वमुदधेरिति वाक्यार्थोऽभिप्रेतः । लक्षणाया अभावान्न नेयार्थत्वं पददूषणमत्र संभावनामारोहति । दूषणताबीजं चात्र स्फुटमेव । अशरीरं तु क्रियापदशून्यमित्युक्तम् । तदेतत्सर्वमभिप्रेत्याह—तदिदं निगदेनैवेति ॥